(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.96. अध्यायः 096
Mahabharata - Udyoga Parva - Chapter Topics
जामदग्न्येन दम्भोद्भवोपाख्यानमाख्याय कृष्णार्जुनयोः नरनारायणस्वरूपताभिधानम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

वैशम्पायन उवाच। 5-96-0x(3675)(35240)
तस्मिन्नभिहिते वाक्ये केशवेन महात्मना।
स्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः ॥ 5-96-1(35241)
कस्स्विदुत्तरमेतेषां वक्तुमुत्सहते पुमान्।
इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः॥ 5-96-2(35242)
तथा तेषु च सर्वेषु तूष्णींभूतेषु राजसु ।
जामदग्न्य इदं वाक्यमब्रवीत्कुरुसंसदि ॥ 5-96-3(35243)
इमां मे सोपमां वाचं श्रृणु सत्यामशङ्कितः ।
तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे ॥ 5-96-4(35244)
राजा दम्भोद्भवो नाम सार्वभौमः पुराऽभवत्।
अखिलां बुभुजे सर्वां पृथिवीमिति नः श्रुतम् ॥ 5-96-5(35245)
स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान् ।
ब्राह्मणान्क्षत्रियान्वैश्यान्पृच्छन्नास्ते महारथः ॥ 5-96-6(35246)
अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि ।
शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वाऽपि शस्त्रभृत्॥ 5-96-7(35247)
इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम्।
दर्पेण महता मत्तः कञ्चिदन्यमचिन्तयन् ॥ 5-96-8(35248)
तं च वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः।
प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः ॥ 5-96-9(35249)
निषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान् ।
अतिमानं श्रिया मत्तं तमूचुर्ब्राह्मणास्तदा ॥ 5-96-10(35250)
तपस्विनो महात्मानो वेदप्रत्ययदर्शिनः ।
उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः ॥ 5-96-11(35251)
अनेकजयिनौ शङ्ख्ये यौ वै पुरुषसत्तमौ ।
तयोस्त्वं न समो राजन्भवितासि कदाचन ॥ 5-96-12(35252)
एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान्।
क्व तौ वीरौ क्वजन्मानौ किंकर्माणौ च कौ च तौ ॥ 5-96-13(35253)
ब्राह्मणा ऊचुः। 5-96-14x(3676)
नरो नारायणश्चैव तापसाविति नः श्रुतम्।
आयातौ मानुषे लोके ताभ्यां युद्ध्यस्व पार्थिव ॥ 5-96-14(35254)
श्रूयेते तौ महात्मानौ नरनारायणावुभौ ।
तपो घोरमनिर्देश्यं तप्येते गन्धमादने ॥ 5-96-15(35255)
स राजा महतीं सेनां योजयित्वा षडङ्गिनीम् ।
अमृष्यमाणः संप्रायाद्यत्र तावपराजितौ ॥ 5-96-16(35256)
स गत्वा विषमं घोरं पर्वतं गन्धमादनम्।
मार्गमाणोऽन्वगच्छत्तौ तापसौ वनमाश्रितौ ॥ 5-96-17(35257)
तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसन्ततौ ।
शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ ॥ 5-96-18(35258)
अभिगम्योपसङ्गृह्य पर्यपृच्छदनामयम्।
तमर्चित्वा मूलफलैरासनेनोदकेन च ॥ 5-96-19(35259)
न्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति।
ततस्तामानुपूर्वी स पुनरेवान्वकीर्तयत् ॥ 5-96-20(35260)
बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः।
भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम् ॥ 5-96-21(35261)
आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति। 5-96-22(35262)
नरनारायणावूचतुः।
अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम ॥ 5-96-22x(3677)
न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः ।
अन्यत्र युद्धमाकाङ्क्ष बहवः क्षत्रियाः क्षितौ ॥ 5-96-23(35263)
राम उवाच। 5-96-24x(3678)
उच्यमानस्तथाऽपि स्म भूय एवाभ्यभाषत।
पुनः पुनः क्षाम्यमाणः सान्त्व्यमानश्च भारत ॥ 5-96-24(35264)
दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ ।
ततो नरस्त्विषीकाणां मुष्टिमादाय भारत ॥ 5-96-25(35265)
अब्रवीदेहि युद्ध्यस्व युद्धकामुक क्षत्रिय।
सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम् ॥ 5-96-26(35266)
अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम् ।
`यदाह्वयसि दर्पेण ब्राह्मणप्रमुखाञ्जनान् ॥' 5-96-27(35267)
दम्भोद्भव उवाच। 5-29-18x(3679)
यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे।
एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः ॥ 5-96-28(35268)
राम उवाच। 5-96-29x(3680)
इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत् ।
दम्भोद्भवस्तापसं तं जिवांसुः सहसैनिकः ॥ 5-96-29(35269)
तस्य तानस्यतो घोरानिषून्परतनुच्छिदः।
कदर्थीकृत्य स मुनिरिषीकाभिः समार्पयत् ॥ 5-96-30(35270)
ततोऽस्मौ प्रासृजद्धोरमैषीकमपराजितः।
अस्त्रमप्रतिसन्धेयं तदुद्भुतमिवाभवत् ॥ 5-96-31(35271)
तेषामक्षीणि कर्णांश्च नासिकाश्चैव मायया ।
निमित्तवेधी स मुनिरीषीकाभिः समार्पयत् ॥ 5-96-32(35272)
स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम् ।
पादयोर्न्यपतद्राजा स्वस्ति मेस्त्विति चाब्रवीत् ॥ 5-96-33(35273)
तमब्रवीन्नरो राजञ्शरण्यः शरणैषिणाम् ।
ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः ॥ 5-96-34(35274)
नैतादृक्पुरुषो राजन्क्षत्रधर्ममनुस्मरन्।
मनसा नृपशार्दूल भवेत्परपुरञ्जयः॥ 5-96-35(35275)
मा च दर्पसमाविष्टः वा तत्ते राजन्समाहितम् ॥
कृतप्रज्ञो वीतलोभो निरहङ्कार आत्मवान् । 5-96-36(35276)
दान्तः क्षान्तो मृदुः सौम्य प्रजाः पालय पार्थिव ॥
मास्म भूयः क्षिपेः कंचिदविदित्वा बलाबलम्। 5-96-37(35277)
अनुज्ञातः स्वस्ति गच्च मैवं भूयः समाचरेः ।
कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भृशम् ॥ 5-96-38(35278)
ततो राजा तयोः पादावभिवाद्य महात्मनोः ।
प्रत्याजगाम स्वपुरं धर्मं चैवाचरद्भृशम् ॥ 5-96-39(35279)
सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा ।
ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत् ॥ 5-96-40(35280)
तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते।
तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनञ्जयम् ॥ 5-96-41(35281)
काकुदीकं शुकं नाकमक्षिसन्तर्जनं तथा।
सन्तानं नर्तकं घोरमास्यमोदकमष्टमम् ॥ 5-96-42(35282)
एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः ।
उन्मत्ताश्च विचेष्टन्ते नष्टसंज्ञा विचेतसः ॥ 5-96-43(35283)
` स्वपन्ति च प्लवन्ते च च्छर्दयन्ति च मानवाः ।
मूत्रयन्ते च सततं रुदन्ति च हसन्ति च॥' 5-96-44(35284)
कामक्रोधौ लोभमोहौ मदमानौ तथैव च।
मात्सर्याहङ्कुती चैव क्रमादेत उदाहृताः॥ 5-96-45(35285)
निर्माता सर्वलोकानामीश्वरः सर्वकर्मवित्।
यस्य नारायणो बन्धुरर्जुनो दुःसहो युधि ॥ 5-96-46(35286)
कस्तमुत्सहते जेतुं त्रिषु लोकेषु भारत।
वीरं कपिध्वजं जिष्णुं यस्य नास्ति समो युधि ॥ 5-96-47(35287)
असङ्ख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः।
त्वमेव भूयो जानासि कुन्तीपुत्रं धनञ्जयम् ॥ 5-96-48(35288)
नरनारायणौ यौ तौ तावेवार्जुनकेशवौ ।
विजानीहि महाराज प्रवीरौ पुरुषोत्तमौ ॥ 5-96-49(35289)
यद्येतदेवं जानासि न च मामभिशङ्कसे ।
आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः ॥ 5-96-50(35290)
अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति ।
प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः ॥ 5-96-51(35291)
भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि ।
तत्तथैवास्तु भद्रं ते स्वार्थमेवोपचिन्तय ॥ ॥ 5-96-52(35292)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षण्णवतितमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-96-42 काकुदीकमित्यादयोऽष्टावस्त्रजातयः ॥ 5-96-45 अयं श्लोको बहुषु कोशेषु न दृश्यते झo पुस्तके एव दृश्यते ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.